Kushta dosholbanata: A.Hridaya
Sloka
दोषभेदीयविहितैरादिशेल्लिङ्गकर्मभिः|
कुष्ठेषु दोषोल्बणताम्----------------|३१|
कुष्ठेषु दोषोल्बणताम्----------------|३१|
सर्वाङ्गसुन्दरी व्याख्या
कुष्ठेषु दोषोल्बणतां-दोषाधिक्यं, दोषभेदीयविहितयथायथं लिङ्गकर्मभिरादिशेत्| लिङ्गानि च तानि कर्माणि च लिङ्गकर्माणि| यथा-वायोः स्रंसादीनि, पित्तस्य दाहादीनि, श्लेष्मणः स्नेहकाठिन्यादीनि, यथायथमात्मीयैरेव कर्मभिर्यतस्तेषां लिङ्गं लक्ष्यते ततस्तेषां दोषाणां कर्माण्येव लिङ्गान्युच्यन्ते| अत एव च स्रंसादीनि कर्माणि दोषाणामुक्त्वाऽनन्तरमिदमुवाच (हृ. सू. अ. १२|५४) - "इत्यशेषामयव्यापि यदुक्तं दोषलक्षणम्| दर्शनाद्यैरवहितस्तत्सम्यगुपलक्षयेत्||" इति|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः