Kushta sadhyasadhyata: A.Hridaya
Sloka
----------------------सर्वदोषोल्बणं त्यजेत्||३१||
रिष्टोक्तं यच्च यच्चास्थिमज्जशुक्रसमाश्रयम्|
याप्यं मेदोगतम् कृच्छ्रं पित्तद्वन्द्वास्रमांसगम्||३२||
अकृच्छ्रं कफवाताढ्यं त्वक्स्थमेकमलं च यत्|
रिष्टोक्तं यच्च यच्चास्थिमज्जशुक्रसमाश्रयम्|
याप्यं मेदोगतम् कृच्छ्रं पित्तद्वन्द्वास्रमांसगम्||३२||
अकृच्छ्रं कफवाताढ्यं त्वक्स्थमेकमलं च यत्|
सर्वाङ्गसुन्दरी व्याख्या
सर्वदोषोल्बणं-सन्निपातजं, कुष्ठं त्यजेत्-न चिकित्सेत्| रिष्टोक्तमिति यच्च विकृतिविज्ञानीये कथितं (हृ. शा. अ. ५|९८) - "कुष्ठं विशीर्यमाणाङ्गं" इत्यादि, तच्च नोपक्रमेत्| यच्च कुष्ठमस्थिमज्जशुक्रसमाश्रयं तच्च त्यजेत्| मेदोगतं कुष्ठं याप्यं-पथ्यादिभिर्यापयितुं शक्यम्| पित्तस्य द्वन्द्वं पित्तद्वन्द्वम्| पित्तद्वन्द्वजं तथा रक्तगं मांसगं च कुष्ठं कृच्छ्रं-कृच्छ्रसाध्यम्| कफवाताढ्यमकृच्छ्रं-सुखसाध्यम्| तथा त्वक्स्थं, तथा एकदोषाधिकं च यत्कुष्ठं तच्च सुखसाध्यम्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः