Kushta - ashtaadasa vidha: A.Hridaya
Sloka
वातेन कुष्ठं कापालं, पित्तादौदुम्बरं, कफात्||७||
मण्डलाख्यं विचर्ची च, ऋक्षाख्यं वातपित्तजम्|
चर्मैककुष्ठकिटिभसिध्मालसविपादिकाः||८||
वातश्लेष्मोद्भवाः, श्लेष्मपित्ताद्दद्रुशतारुषी|
पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा||९||
सर्वैः स्यात्काकणं-------------------------|
मण्डलाख्यं विचर्ची च, ऋक्षाख्यं वातपित्तजम्|
चर्मैककुष्ठकिटिभसिध्मालसविपादिकाः||८||
वातश्लेष्मोद्भवाः, श्लेष्मपित्ताद्दद्रुशतारुषी|
पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा||९||
सर्वैः स्यात्काकणं-------------------------|
सर्वाङ्गसुन्दरी व्याख्या
[वातेन-] वातोल्बणेन सन्निपातेन, कापालं नाम कुष्ठं भवति| पित्तात्-पित्ताधिकात्सन्निपातात्, औदुम्बरं नाम कुष्ठं जायते| कफात्-कफाधिकात्सन्निपातात्, मण्डलाख्यं कुष्ठं जायते| तथा विचर्ची च, कफादेवेति चार्थः| ऋक्षाख्यं कुष्ठं वातपित्तजं-वातपित्तोल्बणात्सन्निपाताज्जातम्| एवमग्रेऽपि योज्यम्| चर्मैककुष्ठकिटिभसिध्मालसविपादिका वातश्लेष्मोद्भवाः| श्लेष्मपित्तात् दद्रुशतारुषी द्वे कुष्ठे| न केवलं दद्रु शतारुश्च श्लेष्मपित्तात्, यावत्पुण्डरीकं तथा विस्फोटस्तथा पामा तथा चर्मदलं जायते| सर्वैः-त्रिभिरेव समैर्दोषैः, काकणं नाम कुष्ठमुत्पद्यते| एवमेतान्यष्टादश कुष्ठानि भवन्ति|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः