Aupasargika roga (Communicable diseases): A.Hridaya
Sloka
स्पर्शैकाहारशय्यादिसेवनात् प्रायशो गदाः||४१||
सर्वे सञ्चारिणो, नेत्रत्वग्विकारा विशेषतः|
सर्वे सञ्चारिणो, नेत्रत्वग्विकारा विशेषतः|
सर्वाङ्गसुन्दरी व्याख्या
सर्वे रोगाः प्रायशो-बाहुल्येन, सञ्चारिणः-सञ्चरणशीलाः| कुतः ? एके च त आहारशय्यादयश्चैकाहारशय्यादयः, आदिशब्देनासनादीनां ग्रहणम्, स्पर्शः-संश्लेषः, स्पर्शश्च एकाहारशय्यादयश्च, तेषां सेवनं-भजनं, तस्मात्| नेत्रे च त्वक् च नेत्रत्वक्, तत्र विकाराः-गदाः, ते विशेषेण सञ्चारिणः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः