Bahya krimi nidana lakshana: A.Hridaya

Sloka

--------------बाह्यास्तत्रामृजोद्भवाः||४३||
तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः|
बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः||४४||
द्विधा ते कोठपिटिकाकण्डूगण्डान् प्रकुर्वते|

सर्वाङ्गसुन्दरी व्याख्या

तत्र-तेषु बाह्याभ्यन्तरेषु कृमिषु मध्ये, अमृजोद्भवाः-बाह्यमलरूपेणोत्पन्नाः, बाह्याः| ते च तिलानामिव प्रमाणसंस्थानवर्णा येषां त एवम्| केशा [ अम्बरं- ] वस्त्रं चाश्रयो येषां त एवम्| तथा बहुपादाः सूक्ष्माश्च| नामतो-नाम्ना, यूका लिक्षाश्चेति द्विधा| ते च कोठादीन् विदधति|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः