Charmadala kushta lakshana: A.Hridaya

Sloka

सस्फोटमस्पर्शसहं कण्डूषातोददाहवत्|
रक्तं दलच्चर्मदलम्-------------------|२९|

सर्वाङ्गसुन्दरी व्याख्या

चर्मदलं नाम कुष्ठं स्फोटवत् तथा स्पर्शाक्षमम्| तथा, कण्ड्वादियुतम्| तथा, रक्तं-वर्णेन| तथा दलत्-स्फुटत्, स्यात्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः