Dadru kushta lakshana: A.Hridaya
Sloka
दीर्घप्रताना दूर्वावदतसीकुसुमच्छविः|
उत्सन्नमण्डला दद्रूः कण्डूमत्यनुषङ्गिणी||२४||
उत्सन्नमण्डला दद्रूः कण्डूमत्यनुषङ्गिणी||२४||
सर्वाङ्गसुन्दरी व्याख्या
दूर्वावद्दीर्घप्रताना दद्रूः| तथा, अतसीपुष्पाभा| तथा, उत्सन्नमण्डला च| तथा, कण्डूमती| तथा, अनुषङ्गिणी-प्रसक्तानुप्रसक्त्या संश्लेषवती शरीरमनुधावती|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः