Dhatugata kushta lakshana: A.Hridaya

Sloka

तत्र त्वचि स्थिते कुष्ठे तोदवैवर्ण्यरूक्षताः||३३||
स्वेदस्वापश्वयथवः शोणिते, पिशिते पुनः|
पाणिपादाश्रिताः स्फोटाः क्लेदः सन्धिषु चाधिकम्||३४||
कौण्यं गतिक्षयोऽङ्गानां दलनं स्याच्च मेदसि|
नासाभङ्गोऽस्थिमज्जस्थे नेत्ररागः स्वरक्षयः||३५||
क्षते च कृमयः, शुक्रे स्वदारापत्यबाधनम्|
यथापूर्वं च सर्वाणि स्युर्लिङ्गान्यसृगादिषु||३६||

सर्वाङ्गसुन्दरी व्याख्या

तत्र-तेषु कुष्ठेषु मध्ये, त्वचि प्राप्ते कुष्ठे तोदादयः स्युः| रक्तस्थे कुष्ठे स्वेदाद्याः स्युः| मांसस्थे कुष्ठे पाणिपादाश्रिताः स्फोटाः स्युः, सन्धिषु चातिशयेन क्लेदो भवति| मेदसि स्थिते कुष्ठे कौण्यं-कुणिता, तथा गतिक्षयः, तथाऽङ्गानां दलनं-छेदनमिव, स्यात्| अस्थिमज्जस्थे कुष्ठे नासायाः-घ्राणस्य भङ्गः, तथा नेत्रयो रागः स्वरस्य च क्षयः स्यात्, क्षते च कृमयः स्युः| शुक्रस्थे कुष्ठे दारणामपत्यानां च बाधनं-उपद्रवैः स्वेदादिभिः पीडनं स्यात्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः