Vataja - Pittaja - Kaphaja switra lakshana: A.Hridaya

Sloka

वाताद्रूक्षारुणं, पित्तात्ताम्रं कमलपत्रवत्|
सदाहं रोमविध्वंसि, कफाच्छ्वेतं घनं गुरु||३८||
सकण्डु च, क्रमाद्रक्तमांसमेदःसु चादिशेत्|
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम्||३९||

सर्वाङ्गसुन्दरी व्याख्या

वाताद्रूक्षारुणं श्वित्रं स्यात्| पित्तात् कमलपत्रमिव ताम्रं वर्णेन, तथा सदाहम्, तथा रोमविध्वंसि-रोमशातनस्वभावम्| कफाच्छ्वेतम्, तथा घनम्, तथा गुरु-अङ्गेनानुभूयते, तथा सह कण्ड्वा वर्तत इति सकण्डु| क्रमात्-यथाक्रमं, वाताद्युद्भवं श्वित्रं रक्तमांसमेदःसु चादिशेत्| तत्र वातोद्भवं श्वित्रं रक्ताश्रयम्| पित्तोद्भवं मांसाश्रयम्| कफोद्भवं मेदोधात्वाश्रयमिति क्रमशब्दस्यार्थः| एवेति चार्थे| उभयं-दोषोद्भवं रक्ताद्याश्रयं श्वित्रं, वर्णेन चेदृक्-अरुणं ताम्रं श्वेतं यथाक्रमम्, न पुनर्वाताद्युद्भवत्वदन्यवर्णं रक्तादिसंश्रयत्वादन्यवर्णमित्यर्थः| तच्च-श्वित्रं वाताद्युद्भवं रक्तादिसंश्रयं च, उत्तरोत्तरं कृच्छ्रसाध्यमादिशेदिति प्रकृतम्| रक्ताश्रयाद्वातजात्कृच्छ्रात् मांसाश्रयं पित्तजं कृच्छ्रतरम्| ततो मेदःसंश्रितं कफजं कृच्छ्रतममिति|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः