Kakana kushta lakshana: A.Hridaya
Sloka
-----------------------काकणं तीव्रदाहरुक्||२९||
पूर्वं रक्तं च कृष्णं च काकणन्तीफलोपमम्|
कुष्ठलिङ्गैर्युतं सर्वैर्नैकवर्णं ततो भवेत्||३०||
पूर्वं रक्तं च कृष्णं च काकणन्तीफलोपमम्|
कुष्ठलिङ्गैर्युतं सर्वैर्नैकवर्णं ततो भवेत्||३०||
सर्वाङ्गसुन्दरी व्याख्या
काकणं नाम कुष्ठं तीव्रदाहरुक्| तथा पूर्वं-प्रथमं, रक्तं तथा कृष्णं काकणन्तीफलोपमं-गुञ्जाफलसदृशम्| ततः-अनन्तरं, सर्वैः कुष्ठलिङ्गैर्युतम्| नैकवर्णं-अपि तु श्वेतपीतादिवर्णमपि स्यादित्यर्थः| सुश्रुते तु मण्डलशतारुर्विपादिकालसकचर्मदलविश्फोटाख्यानि नोदितानि| स्थूलारुष्कमहाकुष्ठपरीसर्वविसर्परकसारुणाख्यानि तत्रोक्तानि| एवं च तल्लक्षणम् (नि. अ. ५|८) - "यत्र स्थूलमूलान्यरूंषि जायन्ते सन्धिषूग्राणि तत् स्थूलारुष्कं कुष्ठम्| उत्पद्यन्ते सर्वदेहे महाख्यं त्वक्सङ्कोचस्वापतोदाङ्गसादाः| यस्मिन् दीर्घाः स्फोटिकाः स्राववत्यः संसर्पेयुस्तं परीसर्पमाहुः|| तुल्यः सर्पेद्यो विसर्पेण शीघ्रं त्वग्रक्तादीन्व्याप्य स स्याद्विसर्पः| कृत्स्ने देहे स्फोटिकाः स्रावहीनाः कण्डूप्राया रक्तसास्ताः प्रदिष्टाः| अरुणानि तनूनि विसर्पिणि तापयुतान्यरुणानि|" इति| तदेतेषु कुष्ठमेदेषु यथा नामविपर्ययस्तथा लक्षणविपर्ययोऽपि| किन्त्वेतेऽपि कुष्ठभेदा दृश्यन्ते एव, इत्येतदपि लक्षणमादरणीयमेवेति मन्यामहेऽधिकं कुष्ठेषु, इत्यादि|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः