Kaphaja krimi: A.Hridaya

Sloka

कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः|
पृथुब्रध्ननिभाः केचित् केचिद्गण्डूपदोपमाः||४७||
रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाऽणवः|
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते||४८||
अन्त्रादा उदरावेष्टा हृदयादा महाकुहाः|
कुरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते||४९||
हृल्लासमास्यस्रवणमविपाकमरोचकम्|
मूर्च्छाच्छर्दिज्वरानाहकार्श्यक्षवथुपीनसान्||५०||

सर्वाङ्गसुन्दरी व्याख्या

कफादामाशये जाताः-न पक्वाशये| तत्र हि पृथगध्येष्यते (श्लो. ५३) - "पक्वाशये पुरीषोत्थाः" इति| ते च वृद्धाः सन्तः सर्वतः-सर्वस्मिन् शरीरे, सर्पन्ति-प्रसरन्ति| सर्वत इति "आद्यादित्वात्(दिभ्यः)" तसिः| पृथुब्रध्ननिभा इत्यादिना संस्थानकथनम्| श्वेता इत्यादिना वर्णकथनम्| नामतो-नाम्ना च, ते सप्तधा-सप्तप्रकाराः| तुश्चार्थे| तान्येव सप्त नामान्याह-अन्त्रादा इत्यादिना| अन्त्राण्यदन्तीत्यन्त्रादाः, इत्यादीन्यर्थानुगतानि नामानि| कानिचित् यादृच्छिकानि कुरव इत्यादीनि| ते च-कफजाः कृमयो, हृल्लासादिकं कुर्वन्ति|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः