Krimi classification: A.Hridaya
Sloka
कृमयस्तु द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः||४२||
बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः|
नामतो विंशतिविधाः-------------------------|४३|
बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः|
नामतो विंशतिविधाः-------------------------|४३|
सर्वाङ्गसुन्दरी व्याख्या
कृमयो द्विधा प्रोक्ताः, मुनिभिरिति शेषः| तुरवधारणे, द्विधैवेत्यर्थः| कथम् ? इत्याह-बाह्याभ्यन्तरमेदतः| एके बाह्या ये केशवस्त्रादिजा यूकालिक्षादयः| अन्ये चान्तराः, यथा-अन्त्रादादयः| बहिर्मलजन्मानः केशवस्त्रमलेभ्यः शरीरबाह्येभ्य उत्पन्नत्वात्, तथा कफजन्मानो रक्तजन्मानो विड्जन्मानश्चेति चतुर्विधाः| विट्-पुरीषम्| नामतो-नामभेदात्, कृमयो विंशतिप्रकाराः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः