Kushta nidana-samprapthi: A.Hridaya
Sloka
मिथ्याहारविहारेण विशेषेण विरोधिना|
साधुनिन्दावधान्यस्वहरणाद्यैश्च सेवितैः||१||
पाप्मभिः कर्मभिः सद्यः प्राक्तनैर्वोरिता मलाः|
सिराः प्रपद्य तिर्यग्गास्त्वग्लसीकासृगामिषम्||२||
दूषयन्ति श्लथीकृत्य निश्चरन्तस्ततो बहिः|
त्वचः कुर्वन्ति वैवर्ण्यं दुष्टाः कुष्ठमुशन्ति तत्||३||
कालेनोपेक्षितं यस्मात्सर्वं कुष्णाति तद्वपुः|
प्रपद्य धातून्व्याप्यान्तः सर्वान् संक्लेद्य चावहेत्||४||
सस्वेदक्लेदसङ्कोथान् कृमीन् सूक्ष्मान् सुदारुणान्|
लोमत्वक्स्नायुधमनीतरुणास्थीनि यैः क्रमात्||५||
भक्षयेच्छ्वित्रमस्माच्च कुष्ठबाह्यमुदाहृतम्|

सर्वाङ्गसुन्दरी व्याख्या
मिथ्याहारादिना तथा साधुनिन्दावधादिभिः पाप्मभिः कर्मभिः सद्यः सेवितैः-अनुष्ठितैः, प्राक्तनैर्वा-अन्यजन्माचरितैः| सेवितग्रहणेन सातत्यानुष्ठानं द्योतयति| तेन कदाचित्करणत्वमेषां न कुष्ठहेतुरिति गम्यते| तैस्तथाभूतैः कर्मभिर्मिथ्याहारादिना च ईरिताः-दुष्टाः, मलाः-वातपित्तकफाः, शिरास्तिर्यग्गामिनीः प्रपद्य-आश्रित्य, त्वग्लसीकासृगामिषं दूषयन्ति| तदेव च त्वगादिकं शिथिलीकृत्य ततः-अनन्तरं, बहिर्निश्चरन्तो-बाह्यदेशे प्रसरन्तः, त्वचो [ यत् ] वैवर्ण्यं कुर्वन्ति तत्कुष्ठमुशन्ति, मुनय इति शेषः| यस्माद्धेतोरुपेक्षितं-अनुपक्रान्तं सत्, कालेन सर्वं वपुः-शरीरं, कृष्णाति तस्मात्तत् कुष्ठमित्युच्यते| तच्च कुष्ठं धातून् सर्वान् प्रपद्य-प्राप्य, अनन्तरमन्तर्व्याप्य-प्रकृतत्वात्तेषामेवान्तरं व्याप्य, तथा सर्वंस्तानेव धातून् संक्लेद्य-क्लेदयित्वा, कृमीनावहेत्-कुर्यात्| किम्भूतान् ? स्वेदादिभिर्युतान्| तथा, सूक्ष्मान्| तथा, सुदारुणान्-दुश्चिकित्स्यान्| यैः-कृमिभिः, तत्कुष्ठं लोमादीन् भक्षयेत्| श्वित्रस्येदृग्रूपता न विद्यते या कुष्ठस्योक्ता| अस्माच्च कारणाच्छ्वित्रं कुष्ठबाह्यमुदाहृतम्, कुष्ठाद्बाह्यं त्वग्गतमात्रमेवोक्तमित्यर्थः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः