Pama kushta lakshana: A.Hridaya
Sloka
-------------पिटिकाः पामा कण्डूक्लेदरुजाधिकाः|
सूक्ष्माः श्यावारुणा बह्व्यः प्रायः स्फिक्पणिकूर्परे||२८||
सूक्ष्माः श्यावारुणा बह्व्यः प्रायः स्फिक्पणिकूर्परे||२८||
सर्वाङ्गसुन्दरी व्याख्या
पिटिकाः कण्डूक्लेदरुजाधिकाः पामेत्युच्यते| किम्भूताः ?सूक्ष्माः श्यावारुणाः बह्व्यश्च| प्रायो-बाहुल्येन, सा च पामा स्फिजोः पाण्योः कूर्परयोश्च स्यात्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः