Kushta purvarupa: A.Hridaya
Sloka
अतिश्लक्ष्णखरस्पर्शखेदास्वेदविवर्णताः|
दाहः कण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिः श्रमः||११||
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः|
रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽपि कोपनम्||१२||
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम्|

सर्वाङ्गसुन्दरी व्याख्या
अतिश्लक्ष्णादिकं कुष्ठलक्षणमग्रजम्-प्राग्रूपमित्यर्थः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः