Pundarika kushta lakshana: A.Hridaya
Sloka
रक्तान्तमन्तरा पाण्डु कण्डूदाहरुजान्वितम्|
सोत्सेधमाचितं रक्तैः पद्मपत्रमिवांशुभिः||२६||
घनभूरिलसीकासृक्प्रायमाशु विभेदि च|
पुण्डरीकम्----------------------------------|२७|
सोत्सेधमाचितं रक्तैः पद्मपत्रमिवांशुभिः||२६||
घनभूरिलसीकासृक्प्रायमाशु विभेदि च|
पुण्डरीकम्----------------------------------|२७|
सर्वाङ्गसुन्दरी व्याख्या
पुण्डरीकं नाम कुष्ठं रक्तपर्यन्तम्| तथा, अन्तरा-मध्ये, पाण्डु| तथा, कण्डूदाहरुजायुतम्| तथा, उन्नतियुक्तम्| तथा, रक्तैरंशुभिः-सूक्ष्मरेखाभिः, आचितं-व्याप्तं, पद्मपत्रमिव| तथा, घनभूरिलसीकासृक्प्रायम्| आशु च विभेदि|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः