Purishaja krimi: A.Hridaya

Sloka

पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः|
वृद्धाः सन्तो भवेयुश्च ते यदाऽऽमाशयोन्मुखाः||५३||
तदाऽस्योद्गारनिःश्वासा विड्गन्धानुविधायिनः|
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः||५४||
ते पञ्च नाम्ना कृमयः ककेरुकमकेरुकाः|
सौसुरादाः सुलूनाख्या लेलिहा जनयन्ति च||५५||
विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः|
रोमहर्षाग्निसदनगुदकण्डूर्विनिर्गमात्||५६|

सर्वाङ्गसुन्दरी व्याख्या

पुरीषोत्थाः पक्वाशय एव जायन्ते| पुरीषस्य पक्वाशयस्थत्वात्| ते चाधोविसर्पिणः स्युः-नोर्ध्वगाः| वृद्धाः सन्तो-वृद्धिं गताः, यदाऽऽमाशयोन्मुखास्ते स्युस्तदाऽस्य-कृमिमतो रोगिणः, उद्गारनिःश्वासा विड्गन्धानुविधायिनः-पुरीषगन्धानुकारिणो, भवेयुः| तथा ते पृथुवृत्ततनुस्थूलाः संस्थानेन स्युः, श्यावपीतसितासिता वर्णेन, तथा नाम्रा पञ्च सङ्ख्यया| तान्येव नामान्याह-ककेरुकेत्यादिना| ते च विनिर्गमाद्धेतोर्विड्भेदादीन् जनयन्ति|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः