Rakthaja krimi: A.Hridaya
Sloka
रक्तवाहिसिरोत्थाना रक्तजा जन्तवोऽणवः|
अपादा वृत्तताम्राश्च सौक्ष्म्यात्केचिददर्शनाः||५१||
केशादा लोमविध्वंसा लोमद्वीपा उदुम्बराः|
षट् ते कुष्ठैककर्माणः सहसौरसमातरः||५२||
अपादा वृत्तताम्राश्च सौक्ष्म्यात्केचिददर्शनाः||५१||
केशादा लोमविध्वंसा लोमद्वीपा उदुम्बराः|
षट् ते कुष्ठैककर्माणः सहसौरसमातरः||५२||
सर्वाङ्गसुन्दरी व्याख्या
रक्तजाः कृमयो रक्तवाहिसिरोत्थानाः स्युः| तथा, अपादा वृत्तास्ताम्रवर्णाश्च| सौक्ष्म्यात्-सूक्ष्मत्वात्कारणात्, केचिददर्शनाः-प्रत्यक्षप्रमाणासमधिगम्याः कार्येणैवानुमीयन्ते| तेषां नामान्याह-केशादा लोमविध्वंसा लोमविध्वंसा लोमद्वीपा उदुम्बरा इति| तथा सह सौरसमातृभ्याम् वर्तन्त इति सहसौरसमातरः| सौरसमातृसंज्ञं नामद्वयम्| एवं षडेते रक्तजाः कृमयः| अन्ये त्वेवं पठन्ति "सहजा रसमातरः " इति| सह शरीरेण जायन्त इति सहजाः, रसो माता-जननी, येषां तत्प्रभवत्वात्ते रसमातर इति| कुष्ठेन सहैकं कर्म-रोमहर्षकण्डूतोदादिकं केशलोमध्वंसादिकं त्वक्सिरास्नायुमांसतरुणास्थिभक्षणं वा, येषां त एवम्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः