Kushta - sapthavidha: A.Hridaya

Sloka

कुष्ठानि सप्तधा दोषैः पृथङ्मिश्रैः समागतैः||६||
सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः|७|

सर्वाङ्गसुन्दरी व्याख्या

कुष्ठानि सप्तधा-सप्तप्रकाराणि| कथम् ? इत्याह-पृथक्-वातपित्तकफैः| तैरेव च मिश्रैः-वातपित्ताभ्यां वातकफाभ्यां पित्तकफाभ्याम्| तैरेव दोषैः समागतैः-सन्निपतितैः| सर्वेष्वपि कुष्ठेषु त्रिदोशेषु - सन्निपातजेष्वपि, अधिकत्वेन व्यपदेशः| सन्निपातस्य समविषमात्मकत्वात्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः