Sidhma kushta lakshana: A.Hridaya

Sloka

सिध्मं रूक्षं बहिः स्निग्धमन्तर्घृष्टं रजः किरेत्||२१||
श्लक्ष्णस्पर्शं तनु श्वेतताम्रं दौग्धिकपुष्पवत्|
प्रायेण चोर्ध्वकाये स्यात्-------------------|२३|

सर्वाङ्गसुन्दरी व्याख्या

सिध्मं नाम कुष्ठं बही रूक्षम्, अन्तः स्निग्धम्, घृष्टं सद्रजः किरेत्-क्षिपेत्| तथा श्लक्ष्णस्पर्शम्| तथा तनु| वर्णेन श्वेतताम्रम्, दौग्धिकपुष्पवत्-अलाबुकुसुमाभम्| तच्च प्रायेण-बाहुल्येन, ऊर्ध्वकाये स्यात्| खरनादेऽप्युक्तम्-"अलाबुपुष्पवत्सिध्मं घृष्टं यच्चोद्वमेद्रजः|" इति|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः