Switra nidana: A.Hridaya
Sloka
कुष्ठैकसम्भवं श्वित्रं किलासं दारुणं च तत्|
निर्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम्||३७||
निर्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम्||३७||
सर्वाङ्गसुन्दरी व्याख्या
कुष्ठानामेकः-समानः, सम्भवो यस्य तच्छ्वित्रं कुष्ठैकसम्भवं भवति| किलासं दारुणं च तन्निर्दिष्टम्, न केवलं श्वित्रमिति| तच्चापरिस्रावि-न कुष्ठवत् स्रवति| उद्भवो-जन्म, संश्रयः-आश्रयः, उद्भवश्च संश्रयश्चोद्भवसंश्रयौ, धातुशब्देनोभयं परिगृह्यते, वातादयस्त्रयो दोषास्तथा रक्तादयस्त्रयो धातवः, धातवश्च धातवश्च धातवः, त्रयो धातवो यथाक्रममुद्भवसंश्रयौ यस्य तत् त्रिधातूद्भवसंश्रयम्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः