Switra sadhyasadhyata: A.Hridaya
Sloka
अशुक्लरोमाबहलमसंसृष्टं मिथो नवम्|
अनग्निदग्धजं साध्यं श्वित्रं, वर्ज्यमतोऽन्यथा||४०||
गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम्|
अनग्निदग्धजं साध्यं श्वित्रं, वर्ज्यमतोऽन्यथा||४०||
गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम्|
सर्वाङ्गसुन्दरी व्याख्या
अशुक्लरोम यच्छित्रं, तथा अबहलं-अघनं, तथा मिथः-परस्परं, असंसृष्टं-अमिलितं, तथा नवं-अवर्षातिक्रान्तं, तथाऽनग्निदग्धजं-अग्निदग्धजं यन्न भवति, तच्च साध्यम्| वर्ज्यमतोऽन्यथा-शुक्लरोम श्वित्रं, तथा बहलं, तथा परस्परसंसृष्टं, तथा चिरकालोत्पन्नमग्निदग्धजं च, तच्चासाध्यम्| गुह्यपाणितलौष्ठेषु जातमचिरन्तनमप्यचिन्त्यस्वभावत्वेन वर्ज्यम्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः