Vipadika kushta lakshana: A.Hridaya
Sloka
---------------------पाणिपाददार्यो विपादिकाः|
तीव्रार्त्यो मन्दकण्ड्वश्च सरागपिटिकाचिताः||२३||
तीव्रार्त्यो मन्दकण्ड्वश्च सरागपिटिकाचिताः||२३||
सर्वाङ्गसुन्दरी व्याख्या
विपादिकाः पाणिपाददार्यः स्युः| तथा, तीव्रार्त्यः-अत्यन्तपीडया युताः| तथा, मन्दकण्ड्वः-अल्पखर्जूकाः| तथा, सरागपिटिकाचिताश्च| पाणिपादौ दारयन्तीति कर्मण्यणतान्ङीप्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १४. कुष्ठश्वित्रकृमिनिदानाध्यायः