Vatasonitha sadhyasadhyata : A.Hridaya
Sloka
एकदोषानुगं साध्यं नवं, याप्यं द्विदोषजम्|
त्रिदोषजं त्यजेत्स्रावि स्तब्धमर्बुदकारि च||१७||
त्रिदोषजं त्यजेत्स्रावि स्तब्धमर्बुदकारि च||१७||
सर्वाङ्गसुन्दरी व्याख्या
एकदोषानुगं वातशोणितं नवं साध्यं-साधयितुं शक्यम्| द्विदोषोद्भवं याप्यं-यापनार्हम्| त्रिदोषजं वातशोणितं त्यजेत्-असाध्यत्वान्नोपक्रमेत्| तथा, स्रावि यद्वातरक्तमर्बुदकारि च, तच्चासाध्यम्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः