Vatasonitha purvarupa: A.Hridaya

Sloka

-----------------------------------तस्य लक्षणम्|
भविष्यतः कुष्ठसमं तथा सादः श्लथाङ्गता||५||
जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु|
कण्डूस्फुरणनिस्तोदभेदगौरवसुप्तताः||६||
भूत्वा भूत्वा प्रणश्यन्ति मुहुराविर्भवन्ति च|

सर्वाङ्गसुन्दरी व्याख्या

तस्य-वातशोणितस्य, भविष्यतो-भाविनो, लक्षणं-प्राग्रूपं, कुष्ठसमं-कुष्ठेन तुल्यम्, कुष्ठस्य यत् प्राग्रूपं-"अतिश्लक्ष्णखरस्पर्श (हृ, नि. अ. १४|११) इत्यादि कुष्ठनिदानोक्तं, तदस्यापि| न केवलमेतदेव यावत्तथा सादः श्लथाङ्गतेत्यादि च, यावन्मुहुराविर्भवन्ति चेत्येतदपि भविष्यतो लक्षणम्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः