Vatasonitha sarvadeha prasratwa: A.Hridaya
Sloka
पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि||७||
आखोरिव विषं क्रुद्धं कृत्स्नं देहं विधावति|
आखोरिव विषं क्रुद्धं कृत्स्नं देहं विधावति|
सर्वाङ्गसुन्दरी व्याख्या
तच्च वातशोणितं पादयोर्मूलमास्थाय-तत्र पूर्वं स्थितिं कृत्वा, कदाचिद्धस्तयोरपि प्रतिष्ठां कृत्वा, आखोः-मूषकस्य सम्बन्धि, यथा विषं क्रुद्धं देहैकदेशे पूर्वं स्थितिं कृत्वाऽनन्तरं कृत्स्नं देहं विधावति-विशेषेण प्रसरति|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः