Vatasonitha nidana/ samprapthi/ naama: A.Hridaya
Sloka
विदाह्यन्नं विरुद्धं च तत्तच्चासृक्प्रदूषणम्|
भजतां विधिहीनं च स्वप्नजागरमैथुनम्||१||
प्रायेण सुकुमाराणामचङ्क्रमणशीलिनाम्|
अभिघातादशुद्धेश्च नृणामसृजि दूषिते||२||
वातलैः शीतलैर्वायुर्वृद्धः कृद्धो विमार्गगः|
तादृशैवासृजा रुद्धः प्राक्तदेव प्रदूषयेत्||३||
आढ्यरोगं खुडं वातबलासं वातशोणितम्|
तदाहुर्नामभिःतच्च पूर्वं पादौ प्रधावति||४||
विशेषाद्यानयानाद्यैः प्रलम्बौ-------------|
भजतां विधिहीनं च स्वप्नजागरमैथुनम्||१||
प्रायेण सुकुमाराणामचङ्क्रमणशीलिनाम्|
अभिघातादशुद्धेश्च नृणामसृजि दूषिते||२||
वातलैः शीतलैर्वायुर्वृद्धः कृद्धो विमार्गगः|
तादृशैवासृजा रुद्धः प्राक्तदेव प्रदूषयेत्||३||
आढ्यरोगं खुडं वातबलासं वातशोणितम्|
तदाहुर्नामभिःतच्च पूर्वं पादौ प्रधावति||४||
विशेषाद्यानयानाद्यैः प्रलम्बौ-------------|
सर्वाङ्गसुन्दरी व्याख्या
मद्याम्लतक्रदधिनिष्पावव्रीहिवारिचरमांसकुलत्थकुठेरादिकं-विदाह्यन्नं, तथा विरुद्धमन्नं-संयोगमात्रादिवशात् यथा "आनूपमामिषं माषक्षौद्रक्षीर" (हृ. सू. अ. ७|२९) इत्यादिकं प्रागुक्तम्, तत्तच्चासृक्प्रदूषणं-अन्यदप्याहारविहारजातं यत्तत्रतत्रोक्तम्, तद्भजतां-शीलयतां, नृणां-पुरुषाणां, तथा विधिहीनं-अयथाशास्त्रं, स्वप्नजागरमैथुनं भजतां प्रायेण सुकुमाराणाम्, प्रायोग्रहणम(णेना)न्येषामपि रक्तोपचयहेत्वाहारसेविनाम्, तथा अचङ्क्रमणशीलिनां-अत्यन्तमास्यादिसुखसेविनाम्, अभिघातात्-अनेकविधात्प्रहारविशेषात्, तथा अशुद्धेः-अशोधनान्मलानिर्हरणात्, तेषामसृजि दूषिते-तद्दूषणहेतुभिर्यथोक्तैर्दुष्टे सम्पन्ने, ततो वातलैः-तिक्तोषणादिभिः सर्वरोगनिदानोक्तैः, तथाऽतिशयेन शीतलैर्वायुर्वृद्धः-अत्यन्तमुपचयं प्राप्य, पश्चात्कुद्धः-कुपितः, अत एव च विमार्गगो-विशेषेणोन्मार्गगामी, तादृशैव-तथाभूतेनैव, असृजा दुष्टेन क्रुद्धेन रुद्धो-विहतगतिः कृतात्यन्तसंश्लेषः, तदेव-शोणितं, प्राक्-पूर्वं, प्रदूषयेत्| प्राग्ग्रहणादनन्तरं सर्वान् धातून् मांसादीन् प्रदूषयेत्| तच्च तथाविधं रक्तमत्युपचितं प्रदुष्टमाढ्यरोगं खुडं वातबलासं वातशोणितमिति नामभिराचार्या आहुः| तच्च रोगस्वभावात् पूर्वं पादौ प्रधावति-समुत्पद्यते| तौ च पादौ विशेषात्-अतिशयेन, यानयानाद्यैः प्रलम्बौ-उच्छूनौ सन्तौ, प्रधावति| यानेन-हस्त्यश्वादिना, यानं-गमनम्| आदिग्रहणादन्यैरपि पादप्रलम्बनोत्पादकैर्गजतुरगादिसदृशैः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः