Vataadhika vatasonitha lakshana: A.Hridaya
Sloka
वातेऽधिकेऽधिकं तत्र शूलस्फुरणतोदनम्|
शोफस्य रौक्ष्यकृष्णत्वश्यावतावृद्धिहानयः||१२||
धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक्|
शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः||१३||
शोफस्य रौक्ष्यकृष्णत्वश्यावतावृद्धिहानयः||१२||
धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक्|
शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः||१३||
सर्वाङ्गसुन्दरी व्याख्या
तत्र-वातशोणिते, वाताधिकेऽधिकं शूलस्फुरणतोदनं भवति| शूलं-सन्तता रुक्| तोदनं तु-विच्छिन्ना रुक् प्रतोदेनेव| तथा, शोफस्य रौक्ष्यकृष्णत्वश्यावतावृद्धिहानयः स्युः, वातस्य चलस्वभावत्वात्| तथा, धमनीनां-सिराविशेषाणां, अङ्गुलिसन्धीनां च सङ्कोचः स्यात्| तथा, अङ्गग्रहः-अङ्गान्यवबद्धानीव स्युः| तथा, अतिरुक् शीतद्वेषानुपशयौ च भवतः| शीतद्वेषः-शीतासहिष्णुत्वम्| तथा, अनुपशयः-असुखानुबन्धः| केनानुपशयः ? प्रकृतत्वाच्छीतद्वेषेणोष्णकामितयोष्णसेवनेन भवति| तथा, स्तम्भवेपथुसुप्तयः स्युः| स्तम्भ इव स्तम्भो-देहस्तब्धता| वेपथुः-कम्पनम्| देहस्य सुप्तिः-अङ्गानामचैतन्यम्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः