Apanavata kopa nidana-lakshana: A.Hridaya

Sloka

अपानो रूक्षगुर्वन्नवेगाघातातिवाहनैः|
यानयानासनस्थानचङ्क्रमैश्चातिसेवितैः||२७||
कुपितः कुरुते रोगान् कृच्छ्रान् पक्वाशयाश्रयान्|
मूत्रशुक्रप्रदोषार्शोगुदभ्रंशादिकान् बहून्||२८||

सर्वाङ्गसुन्दरी व्याख्या

अपानो रूक्षान्नादिभिरतिसेवितैर्वेगाघातादिभिश्चातिसेवितैः कुपितः कृच्छ्रान्-दारुणान्, पक्वाशयाश्रयान् मूत्रशुक्रप्रदोषादीन् बहून् गदान् कुर्यात्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः