Asthiavrutha vayu lakshana: A.Hridaya

Sloka

स्पर्शमस्थ्यावृतेऽत्युष्णं पीडनं चाभिनन्दति||३६||
सूच्येव तुद्यतेऽत्यर्थमङ्गं सीदति शूल्यते|

सर्वाङ्गसुन्दरी व्याख्या

अस्थ्यावृते समीरणे स्पर्शमत्युष्णं पीडनं चाभिनन्दति-अभिलषति| तथा, अङ्गमतिशयेन सूच्येव तुद्यते| तथा, सीदति शूल्यते च|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः