Avrutha vata sadhya-asadhyata: A.Hridaya
Sloka
आवृता वायवोऽज्ञाता ज्ञाता वा वत्सरं स्थिताः||५७||
प्रयत्नेनापि दुःसाध्या भवेयुर्वाऽनुपक्रमाः|
प्रयत्नेनापि दुःसाध्या भवेयुर्वाऽनुपक्रमाः|
सर्वाङ्गसुन्दरी व्याख्या
वातादीनामन्यमेनावृता इत्येवमज्ञाताः-सम्यगनिश्चिताः, वर्षोषिताः प्रयत्नेनापि दुःसाध्याः-कृच्छ्रसाध्या भवेयुः| ज्ञाता वा-पित्तादिना आवृता यथावत्सम्यङ्निश्चयं गताः, वत्सरं स्थिताः| वाशब्द एवार्थे, अनुपक्रमा एव भवेयुः| ततो वाता आवृतेः प्रयत्नेन रक्षणीयाः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः