Dwidoshaja / Sannipathaja vatasonitha lakshana: A.Hridaya

Sloka

------------------द्वन्द्वसर्वलिङ्गं च सङ्करे||१६||

सर्वाङ्गसुन्दरी व्याख्या

द्वन्द्वशब्देन च वातपित्तकफरक्तानां द्वन्द्वानीति प्रायेणेह गृह्यन्ते, सर्वशब्देन च वातपित्तरक्तकफा गृह्यन्ते| द्वन्द्वं च सर्वं च द्वन्द्वसर्वे, तयोर्लिङ्गं-लक्षणं, द्वन्द्वसर्वलिङ्गम्| सङ्करे-व्यामिश्रत्वे सति, द्वन्द्वसर्वलिङ्गं वातशोणितं भवति| कस्य सङ्करे ? प्रकृतत्वाद्वातपित्तरक्तकफानां द्वन्द्वसङ्करे द्वन्द्वलिङ्गं वातशोणितं भवति| सर्वसङ्करे-सर्वेषां वातादीनां सङ्करे, सर्वलिङ्गं वातशोणितं भवति|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः