Mamsavrutha vayu lakshana: A.Hridaya

Sloka

मांसेन कठिनः शोफो विवर्णः पिटिकास्तथा||३४||
हर्षः पिपीलिकानां च सञ्चार इव जायते|

सर्वाङ्गसुन्दरी व्याख्या

मांसेनावृते वायौ कठिनो विवर्णश्च शोफस्तथा पिटिकाः स्युः, हर्षेश्च| तथा, पिपीलिकानां गात्रेषु सञ्चार इव जायते|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः