Medoavrutha vayu lakshana: A.Hridaya
Sloka
चलः स्निग्धो मृदुः शीतः शोफो गात्रेष्वरोचकः||३५||
आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसाऽऽवृते|
आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसाऽऽवृते|
सर्वाङ्गसुन्दरी व्याख्या
मेदसा आवृते वायावङ्गेषु शोफश्चलस्तथा स्निग्धस्तथा शीतो मृदुश्च स्यात् तथाऽरोचकः| सः-एवंविधः, आढ्यवात इति वेद्यः| स च कृच्छ्रः-कृच्छ्रसाध्यः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः