Prana-udana jeevitha-bala: A.Hridaya

Sloka

विशेषाज्जीवितं प्राण उदानो बलमुच्यते||५६||
स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च|

सर्वाङ्गसुन्दरी व्याख्या

प्राणादयः सर्व एव वाता जीवितम्, विशेषेण तु प्राणाख्यो वायुर्जीवितमुच्यते| तथा, उदानाख्यो वायुर्विशेषेण बलमुच्यते| यतश्चैवमतस्तयोः-प्राणोदानयोः, पीडनात्-क्षोभणात्, यथास्वमायुषो बलस्य च हानिर्भवेत्| तस्माद्धेतोः प्राणोदानाख्यौ पवनावाहारादिना यत्नेन भिषजा रक्ष्यौ| तथा च वक्ष्यति (हृ. चि. अ. २२|६९) - "प्राणो रक्ष्यश्चतुर्भ्योऽपि तत्स्थितौ देहसंस्थितः|" इति|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः