Pranavata kopa nidana-lakshana: A.Hridaya

Sloka

वायौ पञ्चात्मके प्राणो रौक्ष्यव्यायामलङ्घनैः|
अत्याहाराभिघाताध्ववेगोदीरणधारणैः||१९||
कुपितश्चक्षुरादीनामुपघातं प्रवर्तयेत्|
पीनसार्दिततृट्कासश्वासादींश्चामयान्बहून्||२०||

सर्वाङ्गसुन्दरी व्याख्या

पञ्चात्मके-प्राणादिभेदात् पञ्चस्वभावे वाते सति, प्राणो नाम वातो रौक्ष्यादिभिः कुपितश्चक्षुरादीनामुपघातं प्रवर्तयेत्-विदधाति| तथा, पीनसदींश्च बहून् रोगान् कुर्यात्| आदिशब्देन हिध्मादयो गृह्यन्ते|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः