Pranavrutha udana lakshana: A.Hridaya

Sloka

निःश्वासोच्छ्वाससंरोधः प्रतिश्यायः शिरोग्रहः|
हृद्रोगो मुखशोषश्च प्राणेनोदान आवृते||५१||

सर्वाङ्गसुन्दरी व्याख्या

प्राणेनोदान आवृते निःश्वासोच्छ्वाससंरोधादयः स्युः| उदानेन प्राण आवृते वर्णौजोबलसङ्क्षयः स्यात्| ननु च, पित्तादिभिः प्राणादीनामावरणं युक्तम्| परस्परं तु प्राणादीनां यदावरणं तदमूर्तत्वादनुपपन्नमिव मन्यामहे| ब्रूमः| द्वयोर्वातयोरन्योन्यमुपसर्पतोर्बलवता दुर्बलस्याभिघातेन गतिभङ्गात्स तेनावृतमार्ग इत्युच्यते| तस्माद्वातानामपि परस्परमावरणं युक्तमेव|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः