Rakthaadhika vatasonitha lakshana: A.Hridaya
Sloka
रक्ते शोफोऽतिरुकतोदस्ताम्रश्चिमिचिमायते|
स्निग्धरूक्षैः शमं नैति कण्डूक्लेदसमन्वितः||१४||
स्निग्धरूक्षैः शमं नैति कण्डूक्लेदसमन्वितः||१४||
सर्वाङ्गसुन्दरी व्याख्या
अधिक इत्यत्रानुवर्तते| रक्तेऽधिके शोफोऽतिरुक्तोद इति| वातेऽप्यधिके शोफः सरुग्भवति किन्तु रक्तेऽधिकेऽतिरुक्तोदः शोफः स्यादिति विशेषः| तथा, ताम्रो-वर्णेन, भवति| चिमिचिमामिवाचरति-चिमिचिमायते| तथा, स्निग्धरूक्षैरसौ शोफः शमं नैति-न याति, कण्डूक्लेदयुक्तः सन्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः