Rakthavrutha vayu lakshana: A.Hridaya

Sloka

रक्तावृते सदाहाऽर्तिस्त्वङ्मांसान्तरजा भृशम्||३३||
भवेच्च रागी श्वयथुर्जायन्ते मण्डलानि च|

सर्वाङ्गसुन्दरी व्याख्या

रक्तावृते पवनेऽर्तिः-पीडा, भृशं त्वङ्मांसान्तरजा दाहयुक्ता स्यात्| रागवाश्च श्वयथुः स्यात्| तथा, मण्डलानि च जायन्ते|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः