Saama-Niraama vata lakshana: A.Hridaya
Sloka
सर्वं च मारुतं सामं तन्द्रास्तैमित्यगौरवैः|
स्निग्धत्वारोचकालस्यशैत्यशोफाग्निहानिभिः||२९||
कटुरूक्षाभिलाषेण तद्विधोपशयेन च|
युक्तं विद्यान्निरामं तु तन्द्रादीनां विपर्ययात्||३०||
स्निग्धत्वारोचकालस्यशैत्यशोफाग्निहानिभिः||२९||
कटुरूक्षाभिलाषेण तद्विधोपशयेन च|
युक्तं विद्यान्निरामं तु तन्द्रादीनां विपर्ययात्||३०||
सर्वाङ्गसुन्दरी व्याख्या
सर्वमपि मारुतं तन्द्रादिभिर्लक्षणैर्युतं सामं विद्यात्| तन्द्रादिलक्षणविपर्ययेण तु निरामं जानीयात्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः