Sarvadhatuaavrutha vayu lakshana: A.Hridaya

Sloka

सर्वधात्वावृते वायौ श्रोणिवङ्क्षणपृष्ठरुक्||४१||
विलोमो मारुतोऽस्वस्थं हृदयं पीड्यतेऽति च|

सर्वाङ्गसुन्दरी व्याख्या

सर्वधात्वावृतेऽनिले श्रोण्यादिरुक् स्यात्| तथा, पवनो विगुणो भवति| हृदयं च व्याकुलं [अति] पीड्यते च|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः