Vyanavata kopa nidana-lakshana: A.Hridaya
Sloka
व्यानोऽतिगमनध्यानक्रीडाविषमचेष्टितैः|
विरोधिरूक्षभीहर्षविषादाद्यैश्च दूषितः||२३||
पुंस्त्वोत्साहबलभ्रंशशोफचित्तोप्लवज्वरान्|
सर्वाङ्गरोगनिस्तोदरोमहर्षाङ्गसुप्तताः||२४||
कुष्ठं विसर्पमन्यांश्च कुर्यात्सर्वाङ्गगान् गदान्|
विरोधिरूक्षभीहर्षविषादाद्यैश्च दूषितः||२३||
पुंस्त्वोत्साहबलभ्रंशशोफचित्तोप्लवज्वरान्|
सर्वाङ्गरोगनिस्तोदरोमहर्षाङ्गसुप्तताः||२४||
कुष्ठं विसर्पमन्यांश्च कुर्यात्सर्वाङ्गगान् गदान्|
सर्वाङ्गसुन्दरी व्याख्या
व्यानोऽतिगमनादिभिर्विरोध्यादिभिश्च दूषितो-दुष्टिं प्राप्तः, पुंस्त्वोत्साहादिभ्रंशादीन् अपरानपि सर्वाङ्गगान् गदान् कुर्यात्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः