Vatasonitha upadrava: A.Hridaya
Sloka
रक्तमार्गं निहत्याशु शाखासन्धिषु मारुतः|
निविश्यान्योन्यमावार्य वेदनाभिर्हरत्यसून्||१८|
निविश्यान्योन्यमावार्य वेदनाभिर्हरत्यसून्||१८|
सर्वाङ्गसुन्दरी व्याख्या
शाखासन्धिषु मारुतो निविश्य-तत्र स्थितिं कृत्वा, तथा रक्तमार्गमाशु-शीघ्रं निहत्य, अनन्तरमन्योन्यमावार्य-प्रकृतत्वाद्रक्तं कर्तृ वातमावार्य वातोऽपि रक्तम्, ततो वेदनाभिः वातरक्तोचिताभिः पीडाभिः, असून्-प्राणान्, हरति |
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः