Uttana-Gambheera vatasonitha lakshana: A.Hridaya
Sloka
तच्च वातशोणितमुत्तानगम्भीरभेदेन द्विधा स्यादित्याह
त्वङ्मांसाश्रयमुत्तानं तत्पूर्वं जायते ततः||८||
कालान्तरेण गम्भीरं सर्वान् धातूनभिद्रवत्|
कण्ड्वादिसंयुतोत्ताने त्वक्ताम्रा श्यावलोहिता||९||
सायामा भृशदाहोषा गम्भीरेऽधिकपूर्वरुक्|
श्वयथुर्ग्रथितः पाकी वायुः सन्ध्यस्थिमज्जसु||१०||
छिन्दन्निव चरत्यन्तर्वक्रीकुर्वंश्च वेगवान्|
करोति खञ्जं पङ्गुं वा शरीरे सर्वतश्चरन्||११||

सर्वाङ्गसुन्दरी व्याख्या
त्वक् च मांसं च, ते आश्रयो यस्य वातरक्तस्य तदेवंभूतं तत्-वातशोणितं, उत्तानं पूर्वं-प्राक्, जायते| ततः-पश्चात्, कालान्तरेण पुनः सर्वान् धातून्-अपरानपि मेदःप्रभृतीन्, अभिद्रवद्गम्भीरं जायते| उत्ताने वातशोणिते त्वक् कण्ड्वादिसंयुता-कण्डूस्फुरणनिस्तोदादियुक्ता (श्लो. ६) , तथा ताम्रा श्यावलोहिता-व्यामिश्रवर्णा, भवति| तथा सहायामेन वर्तत इति सायामा, तथा भृशदाहोषा-अत्यर्थं दाहरुग्युक्ता| गम्भीरे वातशोणितेऽधिकपूर्वरुक् श्वयथुः स्यात्| अधिकं कृत्वा पूर्वा रुक् यस्य श्वयथोरसावधिकपूर्वरुक् श्वयथुः| कुतोऽधिकपूर्वरुक् ? प्रकृतत्वादुत्तानवातशोणितात्| तथा श्वयथुर्ग्रथितः, तथा पाकी-पाकयुक्तः, स्यात्| तथाऽस्मिन् गम्भीरे वायुर्वेगवान्-बलवान्, शरीरे सर्वतश्चरन्-गच्छन्, वक्रीकुर्वंश्च सामर्थ्यात्तदेव शरीरं खञ्जं पङ्गुं वा करोति| तथा असौ सन्ध्यस्थिमज्जसु छिन्दन्निवान्तश्चरति|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः