Vidaavrutha vayu lakshana: A.Hridaya
Sloka
विडावृते विबन्धोऽधः स्वस्थाने परिकृन्तति|
व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः||४०||
शकृत्पीडितमन्नेन दुःखं शुष्कं चिरात्सृजेत्|
व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः||४०||
शकृत्पीडितमन्नेन दुःखं शुष्कं चिरात्सृजेत्|
सर्वाङ्गसुन्दरी व्याख्या
विडावृते मातरिश्वनि स्वस्थाने-अपानाख्ये, अधोविबन्धो जातविबन्धत्वात् परिकृन्तति| स्नेहश्र्चाशु जरां याति| भुक्ते च सति नर आनह्यते-आध्माप्यते| शकृदन्नेन पीडितं चिरेण शुष्कं दुःखं कृच्छ्रेण सृजेत्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १६. वातशोणितनिदानाध्यायः