Akshepakeshu gatae vegae swasthyam: A.Hridaya

Sloka

गते वेगे भवेत्स्वास्थ्यं सर्वेष्वाक्षेपकेषु च||२८||

सर्वाङ्गसुन्दरी व्याख्या

सर्वेषु चाक्षेपकेषु- "यदा तु धमनीः सर्वा" (श्लो. १६) - इत्यादिग्रन्थनिर्दिष्टेषु व्रणायामपर्यन्तेषु, वेगे गते सति-वेगानां शान्तौ सत्यां, स्वास्थ्यं भवेत्-नान्यदा|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः