Avabahuka lakshana: A.Hridaya
Sloka
अंसमूलस्थितो वायुः सिराः सङ्कोच्य तत्रगाः|
बाहुप्रस्पन्दितहरं जनयत्यवबाहुकम्||४३||
बाहुप्रस्पन्दितहरं जनयत्यवबाहुकम्||४३||
सर्वाङ्गसुन्दरी व्याख्या
वायुरंसमूले स्थितः, तत्रगाः-अंसमूलाश्रिताः, सिराः सङ्कोच्यावबाहुकाख्यं वातव्याधिं जनयति| किम्भूतम् ? बाहुप्रस्पन्दितं हरतीति बाहुप्रस्पन्दितहरम्, " हरतेरनुद्यमनेऽच्" इत्यच्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः