Hanusramsa lakshana: A.Hridaya
Sloka
जिह्वातिलेखनाच्छुष्कभक्षणादभिघाततः|
कुपितो हनुमूलस्थः स्रंसयित्वाऽनिलो हनू||२९||
करोति विवृतास्यत्वमथवा संवृतास्यताम्|
हनुस्रंसः स तेन स्यात्कृच्छ्राच्चर्वणभाषणाम्||३०||
कुपितो हनुमूलस्थः स्रंसयित्वाऽनिलो हनू||२९||
करोति विवृतास्यत्वमथवा संवृतास्यताम्|
हनुस्रंसः स तेन स्यात्कृच्छ्राच्चर्वणभाषणाम्||३०||
सर्वाङ्गसुन्दरी व्याख्या
जिह्वातिलेखनादिभिः कुपितो हन्वोर्मूले स्थितो वायुर्हनू स्रंसयित्वा-स्थानाच्चालयित्वा, विवृतास्यत्वं-प्रसारितमुखत्वं, अथवा संवृतास्यत्वं करोति| सः-एवंभूतो, हनुस्रंस उच्यते| तेन च-हनुस्रंसेन, कृच्छ्रात्-कथमपि, चर्वणं भाषणं च स्यात्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः