Pakshavadha/Pakshaghata sadhyasadhyata: A.Hridaya

Sloka

शुद्धवातहतः पक्षः कृच्छ्रसाध्यतमो मतः|
कृच्छ्रस्त्वन्येन संसृष्टो विवर्ज्यः क्षयहेतुकः||४१||

सर्वाङ्गसुन्दरी व्याख्या

शुद्धवातेन हतः पक्षः-एकाङ्गरोगः कृच्छ्रसाध्यतमो मतः-अतिशयेन कृच्छ्रसाध्यः| अन्येन संयुक्तो वातः कृच्छ्रः-कृच्छ्रसाध्यः| क्षयहेतुकः पक्षो विवर्ज्यो-नोपक्रम्यः, असाध्यत्वात्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः