Vatakantaka lakshana: A.Hridaya
Sloka
रुक् पादे विषमन्यस्ते श्रमाद्वा जायते यदा|
वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम्||५३||
वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम्||५३||
सर्वाङ्गसुन्दरी व्याख्या
पादे-चरणे विषमन्यस्ते सति, अथवा श्रमेण यदा गुल्फमाश्रित्य वातेन रुग्जायते, तं वातकण्टकाख्यं वातव्याधिमाहुः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः